You are currently viewing Aarti Shri Guru charitrachi ji ki (श्री गुरुचरित्राची की आरती)

Aarti Shri Guru charitrachi ji ki (श्री गुरुचरित्राची की आरती)

मूर्तित्रयगुणसारं निर्गुणविस्तारं ।
षड्गुणपारावारं दुर्जनसंहारं ।
भक्तिप्रियदातारं कल्पितपरिपारं ।
मुनिजनमानसहारं निगमागमसारं ॥ १ ॥

जय देव जय देव वंदे गुरुचरितं ।
कृपया मानसदुरितं मामुद्धर त्वरितं ।
जय देव जय देव ॥ धृ. ॥
श्रीपाद श्रीवल्लभ यतिवर कृतकृत्यं ।
नरहरि भारति लीला ब्रह्मादिस्तुत्यं ।
कलिमलदाहक मंगलदायक फलनित्यं ।
पारायण देहि मे पुस्तकमपि चित्यं ॥ २ ॥

जय देव जय देव वंदे गुरुचरितं ।
कृपया मानसदुरितं मामुद्धर त्वरितं ।
जय देव जय देव ॥ धृ. ॥
त्वद्रतलीलासारं श्रृतिसकलाकारं ।
कांडत्रयविस्तारं प्रत्ययलघुकारं ।
कल्पद्रुमफलभारं कल्पित्तदातारं ।
पठणामृतरसधारं भवभयपरिहारं ॥ ३ ॥

जय देव जय देव वंदे गुरुचरितं ।
कृपया मानसदुरितं मामुद्धर त्वरितं ।
जय देव जय देव ॥ धृ. ॥
अगाध श्रीगुरुकरुणं भूइच्छातरणं ।
ज्ञानामृतरसभरणं जडजीवोद्धारणं ।
भक्त्या कृतमपि स्मरणं तापत्रयहरणं ।
नियमाराधित महिमा मोक्षश्रीवर्णं ॥ ४ ॥

जय देव जय देव वंदे गुरुचरितं ।
कृपया मानसदुरितं मामुद्धर त्वरितं ।
जय देव जय देव ॥ धृ. ॥
श्रीगुरुकरुणाकृत्यं सिद्धेश्र्वरगीतं ।
शारदगंगाधरसुतमथितं नवनीतं ।
भाविकभक्तप्रियकर कृतलोककदतं ।
तद्रेतशेषं वांछित सखा हरिहरचित्तं ॥ ५ ॥

जय देव जय देव वंदे गुरुचरितं ।
कृपया मानसदुरितं मामुद्धर त्वरितं ।
जय देव जय देव ॥ धृ. ॥

Leave a Reply